|| श्री गणेश कवचं ||एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो |अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम || 1 ||दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः |अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि || 2 ||ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगेत्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् |द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्येतु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा || 3 ||विनायक श्शिखाम्पातु परमात्मा परात्परः |अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः || 4 ||ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः |नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ || 5 ||जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः |वाचं विनायकः पातु दन्तान्// रक्षतु दुर्मुखः || 6 ||श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः |गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः || 7 ||स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः |हृदयं गणनाथस्तु हेरम्बो जठरं महान् || 8 ||धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः |लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः || 9 ||गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् |एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु || 10 ||क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः |अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः || 11 ||सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु |अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु || 12 ||आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु |प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः || 13 ||दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः |प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः || 14 ||कौबेर्यां निधिपः पायादीशान्याविशनन्दनः |दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् || 15 ||राक्षसासुर बेताल ग्रह भूत पिशाचतः |पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः || 16 ||ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् |वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् || 17 ||सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा |कपिलो जानुकं पातु गजाश्वान् विकटोवतु || 18 ||भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः |न भयं जायते तस्य यक्ष रक्षः पिशाचतः || 19 ||त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् |यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् || 20 ||युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् |मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि || 21 ||सप्तवारं जपेदेतद्दनानामेकविंशतिः |तत्तत्फलमवाप्नोति साधको नात्र संशयः || 22 ||एकविंशतिवारं च पठेत्तावद्दिनानि यः |कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् || 23 ||राजदर्शन वेलायां पठेदेतत् त्रिवारतः |स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् || 24 ||इदं गणेशकवचं कश्यपेन सविरितम् |मुद्गलाय च ते नाथ माण्डव्याय महर्षये || 25 ||मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् |न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् || 26 ||अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् |राक्षसासुर बेताल दैत्य दानव सम्भवाः || 27 |||| इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ||
AdminBlog
Adminblogs Oct 30, 2023 28618
Adminblogs Jul 19, 2023 24653
Adminblogs Oct 30, 2023 20947
Adminblogs Jan 19, 2024 20336
Adminblogs Jul 4, 2024 19960
AdminBlog Sep 6, 2025 3646
AdminBlog Aug 18, 2025 5005
AdminBlog Aug 8, 2025 5274
Adminblogs Aug 11, 2023 15455
लाल
नीला
पीला
हरा
गुलाबी
Vote View Results
Total Vote: 4270
View Options