स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः |सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः || 1 ||जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः |हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः || 2 ||प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः |श्मशानचारी भगवानः खचरो गोचरोऽर्दनः || 3 ||अभिवाद्यो महाकर्मा तपस्वी भूत भावनः |उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः || 4 ||महारूपो महाकायो वृषरूपो महायशाः |महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः || 5 ||लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः |पवित्रश्च महांश्चैव नियमो नियमाश्रयः || 6 ||सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः |सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः || 7 ||चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः |अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः || 8 ||महातपा घोर तपाऽदीनो दीनसाधकः |संवत्सरकरो मन्त्रः प्रमाणं परमं तपः || 9 ||योगी योज्यो महाबीजो महारेता महातपाः |सुवर्णरेताः सर्वघ्Yअः सुबीजो वृषवाहनः || 10 ||दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः |विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः || 11 ||गणकर्ता गणपतिर्दिग्वासाः काम एव च |पवित्रं परमं मन्त्रः सर्वभाव करो हरः || 12 ||कमण्डलुधरो धन्वी बाणहस्तः कपालवानः |अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः || 13 ||स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः |उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा || 14 ||दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च |सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः || 15 ||अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि |उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः || 16 ||त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः |अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः || 17 ||गजहा दैत्यहा लोको लोकधाता गुणाकरः |सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः || 18 ||कालयोगी महानादः सर्ववासश्चतुष्पथः |निशाचरः प्रेतचारी भूतचारी महेश्वरः || 19 ||बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः |नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः || 20 ||घोरो महातपाः पाशो नित्यो गिरि चरो नभः |सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः || 21 ||अमर्षणो मर्षणात्मा यघ्Yअहा कामनाशनः |दक्शयघ्Yआपहारी च सुसहो मध्यमस्तथा || 22 ||तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः |गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः || 23 ||न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः |सुदीक्श्णदशनश्चैव महाकायो महाननः || 24 ||विष्वक्सेनो हरिर्यघ्Yअः संयुगापीडवाहनः |तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः || 25 ||विष्णुप्रसादितो यघ्Yअः समुद्रो वडवामुखः |हुताशनसहायश्च प्रशान्तात्मा हुताशनः || 26 ||उग्रतेजा महातेजा जयो विजयकालवितः |ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च || 27 ||शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली |वैणवी पणवी ताली कालः कालकटङ्कटः || 28 ||नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः |प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः || 29 ||विमोचनः सुरगणो हिरण्यकवचोद्भवः |मेढ्रजो बलचारी च महाचारी स्तुतस्तथा || 30 ||सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः |व्यालरूपो बिलावासी हेममाली तरङ्गवितः || 31 ||त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः |बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः || 32 ||साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः |प्रस्कन्दनो विभागश्चातुल्यो यघ्Yअभागवितः || 33 ||सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः |हेमो हेमकरो यघ्Yअः सर्वधारी धरोत्तमः || 34 ||लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः |सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः || 35 ||मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः |सर्वकामप्रसादश्च सुबलो बलरूपधृकः || 36 ||सर्वकामवरश्चैव सर्वदः सर्वतोमुखः |आकाशनिधिरूपश्च निपाती उरगः खगः || 37 ||रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी |वसुवेगो महावेगो मनोवेगो निशाचरः || 38 ||सर्वावासी श्रियावासी उपदेशकरो हरः |मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः || 39 ||पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः |उन्मादो मदनाकारो अर्थार्थकर रोमशः || 40 ||वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः |सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः || 41 ||भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः |महासेनो विशाखश्च षष्टिभागो गवाम्पतिः || 42 ||वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च |ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः || 43 ||वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः |ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः || 44 ||ईशान ईश्वरः कालो निशाचारी पिनाकधृकः |निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः || 45 ||नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः |भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः || 46 ||चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च |लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः || 47 ||बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः |इतिहास करः कल्पो गौतमोऽथ जलेश्वरः || 48 ||दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः |लोक कर्ता पशु पतिर्महाकर्ता महौषधिः || 49 ||अक्शरं परमं ब्रह्म बलवानः शक्र एव च |नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः || 50 ||बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः |वेदकारः सूत्रकारो विद्वानः समरमर्दनः || 51 ||महामेघनिवासी च महाघोरो वशीकरः |अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः || 52 ||वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः |नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः || 53 ||स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः |उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा || 54 ||कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः |महापादो महाहस्तो महाकायो महायशाः || 55 ||महामूर्धा महामात्रो महानेत्रो दिगालयः |महादन्तो महाकर्णो महामेढ्रो महाहनुः || 56 ||महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः |महावक्शा महोरस्को अन्तरात्मा मृगालयः || 57 ||लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः |महादन्तो महादंष्ट्रो महाजिह्वो महामुखः || 58 ||महानखो महारोमा महाकेशो महाजटः |असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः || 59 ||स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः |वृक्शाकारो वृक्श केतुरनलो वायुवाहनः || 60 ||मण्डली मेरुधामा च देवदानवदर्पहा |अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः || 61 ||यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा |अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः || 62 ||उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः |नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः || 63 ||द्वादशस्त्रासनश्चाद्यो यघ्Yओ यघ्Yअसमाहितः |नक्तं कलिश्च कालश्च मकरः कालपूजितः || 64 ||सगणो गण कारश्च भूत भावन सारथिः |भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः || 65 ||अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः |शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः || 66 ||आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः |शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः || 67 ||कपिलोऽकपिलः शूरायुश्चैव परोऽपरः |गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्Yएयः सुसारथिः || 68 ||परश्वधायुधो देवार्थ कारी सुबान्धवः |तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः || 69 ||उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः |सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः || 70 ||बन्धनो बन्धकर्ता च सुबन्धनविमोचनः |सयघ्Yआरिः सकामारिः महादंष्ट्रो महाऽऽयुधः || 71 ||बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः |अमरेशो महादेवो विश्वदेवः सुरारिहा || 72 ||अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा |अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः || 73 ||धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा |धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः || 74 ||प्रभावः सर्वगो वायुरर्यमा सविता रविः |उदग्रश्च विधाता च मान्धाता भूत भावनः || 75 ||रतितीर्थश्च वाग्मी च सर्वकामगुणावहः |पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः || 76 ||बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी |कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः || 77 ||सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः |देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः || 78 ||कैलास शिखरावासी हिमवदः गिरिसंश्रयः |कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः || 79 ||वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः |सारग्रीवो महाजत्रु रलोलश्च महौषधः || 80 ||सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः |सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः || 81 ||प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः |सारङ्गो नवचक्राङ्गः केतुमाली सभावनः || 82 ||भूतालयो भूतपतिरहोरात्रमनिन्दितः || 83 ||वाहिता सर्वभूतानां निलयश्च विभुर्भवः |अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः || 84 ||धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः |गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः || 85 ||हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः |प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः || 86 ||गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः |महागीतो महानृत्तोह्यप्सरोगणसेवितः || 87 ||महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः |आवेदनीय आवेशः सर्वगन्धसुखावहः || 88 ||तोरणस्तारणो वायुः परिधावति चैकतः |संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः || 89 ||नित्यात्मसहायश्च देवासुरपतिः पतिः |युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः || 90 ||आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः |वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः || 91 ||शिरोहारी विमर्शश्च सर्वलक्शण भूषितः |अक्शश्च रथ योगी च सर्वयोगी महाबलः || 92 ||समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः |निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः || 93 ||रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः |मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः || 94 ||आरोहणो निरोहश्च शलहारी महातपाः |सेनाकल्पो महाकल्पो युगायुग करो हरिः || 95 ||युगरूपो महारूपो पवनो गहनो नगः |न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः || 96 ||बहुमालो महामालः सुमालो बहुलोचनः |विस्तारो लवणः कूपः कुसुमः सफलोदयः || 97 ||वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः |इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः || 98 ||निवेदनः सुधाजातः सुगन्धारो महाधनुः |गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः || 99 ||मन्थानो बहुलो बाहुः सकलः सर्वलोचनः |तरस्ताली करस्ताली ऊर्ध्व संहननो वहः || 100 ||छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः |मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः || 101 ||हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः |सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः || 102 ||सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः |पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः || 103 ||ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः |पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः || 104 ||गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः |अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः || 105 ||ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः |चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः || 106 ||कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः |उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः || 107 ||वरो वराहो वरदो वरेशः सुमहास्वनः |महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः || 108 ||प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः |सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः || 109 ||चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः |साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः || 110 ||व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः |ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः || 111 ||कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः |विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः || 112 ||सदसदः व्यक्तमव्यक्तं पिता माता पितामहः |स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः || 113 ||निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः |देवासुरविनिर्माता देवासुरपरायणः || 114 ||देवासुरगुरुर्देवो देवासुरनमस्कृतः |देवासुरमहामात्रो देवासुरगणाश्रयः || 115 ||देवासुरगणाध्यक्शो देवासुरगणाग्रणीः |देवातिदेवो देवर्षिर्देवासुरवरप्रदः || 116 ||देवासुरेश्वरोदेवो देवासुरमहेश्वरः |सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः || 117 ||उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः |ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः || 118 ||विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः |प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः || 119 ||गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः |शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः || 120 ||अभिरामः सुरगणो विरामः सर्वसाधनः |ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः || 121 ||स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः |सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः || 122 ||व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः |विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः || 123 ||
इति श्री महाभारते अनुशासन पर्वे
AdminBlog
Adminblogs Oct 30, 2023 28566
Adminblogs Jul 19, 2023 24603
Adminblogs Oct 30, 2023 20926
Adminblogs Jan 19, 2024 20313
Adminblogs Jul 4, 2024 19923
AdminBlog Sep 6, 2025 3616
AdminBlog Aug 18, 2025 4927
AdminBlog Aug 8, 2025 5250
Adminblogs Aug 11, 2023 15437
लाल
नीला
पीला
हरा
गुलाबी
Vote View Results
Total Vote: 4270
View Options